|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.5. अध्यायः 005
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
अङ्गीरसः पुत्रेण संवर्तेनाकारणवैरिणः स्वाग्रजन्मनो बृहस्पतेरुपद्रवासहनेन सर्वस्वत्यागपूर्वकमरण्यप्रवेशः॥ 1 ॥ इन्द्रेण स्वातिशायिनि मरुत्ते राजनि स्पर्धया बृहस्पतिसाचिव्येन ततोप्यतिशयलिप्सया मरुत्तपुरोहितस्य बृहस्पतेर्भेदोपायेन वशीकरणम्॥ 2 ॥ बृहस्पतिनेन्द्रंप्रति मरुत्तस्य स्वेनायाजनप्रतिज्ञानम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
पथंवीर्यः समभवत्स राजा ददतांवरः।
कथं च जातरूपेण समयुज्यत वै नृपः॥ 14-5-1(92459)
क्व च तत्सांप्रतं द्रव्यं भगवन्नवतिष्ठते।
कथं च शक्यमस्माभिस्तदवाप्नुं तचपोधन॥ 14-5-2(92460)
व्यास उवाच। 14-5-3x(7735)
असुराश्चैव देवाश्च दक्षस्यासन्प्रजापतेः।
अपत्यं बहुलं तात तेऽस्पर्धन्त परस्परम्॥ 14-5-3(92461)
तथैवाङ्गिरसः पुत्रौ पितृतुल्यौ बभूवतुः।
बृहस्पतिर्बृहत्तेजाः संवर्तश्च तपोधनः॥ 14-5-4(92462)
तावति स्पर्धिनौ राजन्पृथगास्तां परस्परम्।
बृहस्पतिः स संवर्तं बाधते स्म पुनःपुनः॥ 14-5-5(92463)
स बाध्यमानः सततं भ्रात्रा ज्येष्ठेन भारत।
अर्थानुत्सृज्य दिग्वासा वने वासमरोचयत्॥ 14-5-6(92464)
वासवोऽप्यसुरान्सर्वान्विजित्य च निपात्य च।
इन्द्रत्वं प्राप्य लोकेषु ततो वव्रे पुरोहितम्॥ 14-5-7(92465)
पुत्रमङ्गिरसो ज्येष्ठं विप्रज्येष्ठं बृहस्पतिम्।
याज्यस्त्वङ्गिरसः पूर्वमासीद्राजा करंधमः॥ 14-5-8(92466)
वीर्येणाप्रतिमो लोके वृत्तेन च बलेन च।
शतक्रतुरिवौजस्वी धर्मात्मा संशितव्रतः। 14-5-9(92467)
वाहनं यस्य योधाश्च मित्राणि विविधानि च।
शयनानि च मुख्यानि महार्हाणि च सर्वशः॥ 14-5-10(92468)
ध्यानादेवाभवद्राजन्मुखवातेन सर्वशः।
स गुणैः पार्थिवान्सर्वान्वशे चक्रे नराधिपः॥ 14-5-11(92469)
संजीव्य कालमिष्टं च सशरीरो दिवं गतः।
बभूव तस्य पुत्रस्तु ययातिरिव धर्मवित्॥ 14-5-12(92470)
अविक्षिन्नाम शत्रुंजित्स वशे कृतवान्महीम्।
विक्रमेण गुणैश्चैव पितेवासीत्स पार्थिवः॥ 14-5-13(92471)
तस्य वासवतुल्योऽभून्मरुत्तो नाम वीर्यवान्।
पुत्रस्तमनुरक्ताऽभूत्पृथिवी सागराम्बरा॥ 14-5-14(92472)
स्पर्धते स स्म सततं देवराजेन नित्यदा।
वासवोऽपि मरुत्तेनि स्पर्धते पाण्डुनन्दन॥ 14-5-15(92473)
शुचिः स गुणवानासीन्मरुत्तः पृथिवीपतिः।
यतमानोपि यं शक्रो न विशेषयति स्म ह॥ 14-5-16(92474)
सोऽशक्नुवन्विशेषाय समाहूय बृहस्पतिम्।
उवाचेदं वचो देवैः सहितो हरिवाहनः॥ 14-5-17(92475)
बृहस्पते मरुत्तस्य मा स्म कार्षीः कथञ्चन।
दैवं कर्माथ पित्र्यं वा कर्तासि मम चेत्प्रियम्॥ 14-5-18(92476)
अहं हि त्रिषु लोकेषु सुराणां च बृहस्पते।
इन्द्रत्वं प्राप्तवानेको मरुत्तस्तु महीपतिः॥ 14-5-19(92477)
कथं ह्यमर्त्यं ब्रह्मंस्त्वं याजयित्वा सुराधिपम्।
याजयेर्मृत्युसंयुक्तं मरुत्तमविशङ्कया॥ 14-5-20(92478)
मां वा वृणीष्व भद्रं ते मरुत्तं वा महीपतिम्।
परित्यज्य मरुत्तं वा यथाजोषं भजस्व माम्॥ 14-5-21(92479)
एवमुक्तः स करकव्य देवराज्ञा बृहस्पतिः।
मुहूर्तमिव सञ्चिन्त्य देवराजानमब्रवीत्॥ 14-5-22(92480)
त्वं भूतानामधिपतिस्त्वयि लोकाः प्रतिष्ठिताः।
नमुचेर्विश्वरूपस्य निहन्ता त्वं बलस्य च॥ 14-5-23(92481)
त्वमाजहर्थ् देवानामेको वीरश्रियं पराम्।
त्वं बिभर्षि भुवं द्यां च सदैव बलसूदन॥ 14-5-24(92482)
परोहित्यं कथं कृत्वा तव देवगणेश्वर।
याजयेयमहं मर्त्यं मरुत्तं पाकशासन॥ 14-5-25(92483)
समाश्वसिहि देवेन्द्र नाहं मर्त्यस्य कर्हिचित्।
ग्रहीष्यामि स्रुवं यज्ञे शृणु चेदं वचो मम॥ 14-5-26(92484)
हिरण्यरेता नोष्णः स्यात्परिवर्तेत मेदिनी।
भासं तु न रविः कुर्यान्न तु सत्यं चलेन्मयि॥ 14-5-27(92485)
व्यास उवाच। 14-5-28x(7736)
बृहस्पतिवचःक श्रुत्वा शक्रो विगतमत्सरः।
प्रशस्यैनं विवेशाथ स्वमेव भवनं तदा॥ ॥ 14-5-28(92486)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि पञ्चमोऽध्यायः॥ 5 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|